Om Sai Ram~~~
श्रीगणेशस्तोत्र~~~
श्रीगणेशाय नमः ~~~ श्रीगणेशाय नमः ~~~ श्रीगणेशाय नमः ~~~
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ~
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ~~~
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ~
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ~~~
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ~
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ~~~
नवमं भालचन्द्रं च दशमं तु विनायकम् ~
एकादशं गणपतिं द्वादशं तु गजाननम् ~~~
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ~
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ~~~
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ~
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ~~~
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ~
संवत्सरेण सिद्धिं च लभते नात्र संशयः ~~~
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ~
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ~~~
इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम्~~~
Jai Sai Ram~~~
Om Sai Ram~~~
Shri Ganesha Stotram~~~
Pranamya Sirasa devam Gauri Puthram Vinayakam
Bhaktavasam Smarennithyam Ayuh Kamartha Siddaye ~~
Prathamam Vakrathundam cha Ekadantham Dvithiyakam
Thrithiyam Krishna Pingaaksham Gajavakthram Chathurthakam~~
Lambodaram Panchamam cha Shashtam Vikatameva cha
Saptamam Vighna Rajam cha Dhoomravarnam thathashtakam~~
Navamam Phala Chandram cha Dasamam thu Vinayakam
Ekadasam Ganapathim Dwadasam thu Gajananam ~~
Dwadasaithani Namaani Thri Sandhyam Yah Pathennarah
Na cha Vighna Bhayam thasya Sarva Siddhi karim Prabho~~
Vidyarthi Labhate Vidyam~
Dhanarthi Labhate Dhanam~
Puthrarthi Labhate Putraam~
Mokshaarthi Labhate Gatim~
Japeth Ganapthi Stotram Shadbhirmaasai Phalam Labheth,
Samvatsarena Siddhim cha Labhate Naathra Samsayaha~~
Ashtabhyo Brahmanebhyash cha Likhitwa yah Samarpayeth
Thasya Vidya bhavetsarva Ganeshasya Prasadathaha~~